|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.265. अध्यायः 265
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति धर्मलक्षणकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-265-0x(6282)(75868)
इमे वै मानसाः सर्वे धर्मं प्रति विशङ्किताः।
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह॥ 12-265-1(75869)
धर्मस्त्वयमिहार्थः किममुत्रार्थोपि वा भवेत्।
उभयार्थो हि वा धर्मस्तन्मे ब्रूहि पितामह॥ 12-265-2(75870)
भीष्म उवाच। 12-265-3x(6283)
सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम्।
चतुर्थमर्थमप्याहुः कवयो धर्मलक्षणम्॥ 12-265-3(75871)
अविध्युक्तानि कर्माणि व्यवस्यन्त्युप्तमूषरे।
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः॥ 12-265-4(75872)
उभयत्र सुखोदर्क इह चैव परत्र च।
अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति॥ 12-265-5(75873)
न च पापकृतः पापान्मुच्यन्ते केचिदापदि।
अपापवादी भवति यथा भवति धर्मवित्।
धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य चावसेत्॥ 12-265-6(75874)
यथाधर्मसमाविष्टो धनं गृह्णाति तस्करः।
रमते निर्हरस्तेनः परवित्तमराजके॥ 12-265-7(75875)
यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति।
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः॥ 12-265-8(75876)
अभीतः शुचिरभ्येति राजद्वारमशङ्कितः।
न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति॥ 12-265-9(75877)
सत्यस्य वचनं साधु न सत्याद्विद्यते परम्।
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम्॥ 12-265-10(75878)
अपि पापकृतो रौद्राः सत्यं कृत्वा मिथःकृतम्।
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः॥ 12-265-11(75879)
ते चेन्मिथ्या धृतिं कुर्युर्विनश्येयुरसंशयम्।
न हर्तव्यं परधनमिति धर्मविदो विदुः॥ 12-265-12(75880)
मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम्।
यदा नियतिदौर्बल्यमथैषामेव रोचते॥ 12-265-13(75881)
न ह्यत्यन्तं बलयुता भवन्ति सुखिनोपि वा।
तस्मादनार्जवे बुद्धिर्न कार्या ते कदाचन॥ 12-265-14(75882)
असाधुभ्योऽस्य न भयं न चौरेभ्यो न राजतः।
अकिंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत्॥ 12-265-15(75883)
सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान्।
बहुधाऽऽचरितं पापमन्यत्रैवानुपश्यति॥ 12-265-16(75884)
मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा।
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति॥ 12-265-17(75885)
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः।
तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम्॥ 12-265-18(75886)
यदा नियतिकार्पण्यमथैपामव रोचते।
धनवन्तोपि नात्यन्तं भवन्ति सुखिनोपि वा॥ 12-265-19(75887)
यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः।
न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः॥ 12-265-20(75888)
योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति।
यदन्यस्य ततः कुर्यान्न मृष्येदिति मे मतिः॥ 12-265-21(75889)
जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत्।
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत्॥ 12-265-22(75890)
अतिरिक्तः संविभजेद्भोगैरन्यानकिंचनान्।
एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम्॥ 12-265-23(75891)
यस्मिंस्तु देवाः समये सन्तिष्ठेरंस्तथा भवेत्।
अथ चेल्लोभसमये स्थितिर्धर्मोऽपि शोभना॥ 12-265-24(75892)
सर्वं प्रियाभ्युपगतं पुण्यमाहुर्मनीषिणः।
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर॥ 12-265-25(75893)
लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा।
सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम्॥ 12-265-26(75894)
धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम।
तस्मादनार्जवे बुद्धिर्न ते कार्या कथंचन॥ ॥ 12-265-27(75895)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चषष्ट्यधिकद्विशततमोऽध्यायः॥ 265॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-265-14 तस्मादर्थार्जने बुद्धिरिति थ. पाठः॥ 12-265-16 पापं मनस्येवाधिगच्छतीति थ. पाठः॥ 12-265-18 क्षन्तव्यमित्ययं धर्म इति ध. पाठः॥ 12-265-21 योऽन्यस्य स्वादुवद्वक्ति कस्तं हिंसितुमिच्छतीति ट. थ. पाठः॥ 12-265-22 यः स्वयं नेच्छेदिति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|